|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.239. अध्यायः 239
Mahabharata - Vana Parva - Chapter Topics
कर्णशकुन्यादिभिर्द्वैतवनगमने घोषयात्राया उपायत्वनिर्धारणम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-239-0x(2590)(25309)
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्ततः।
हृष्टो भूत्वापुनर्दीनो राधेयमिदमब्रवीत् ॥ 3-239-1(25310)
ब्रवीषि यदिदं कर्ण सर्वं मनसि मे स्थितम्।
न त्वभ्यनुज्ञां लप्स्यामि गमने यत्रपाण्डवाः ॥ 3-239-2(25311)
परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः।
मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान् ॥ 3-239-3(25312)
अथवाऽप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम्।
एतामप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति ॥ 3-239-4(25313)
न हि द्वैतवने किंचिद्विद्यतेऽन्यत्प्रयोजनम्।
उन्माथनमृते तेषां वनस्थानामपि द्विषाम् ॥ 3-239-5(25314)
जानासिहि यथा क्षत्ता द्यूतकाल उपस्थिते।
अब्रवीद्यच्च मां त्वां च सौबलं वचनं तदा ॥ 3-239-6(25315)
तानिसर्वाणि वाक्यानि यच्चान्यत्परिदेवितम्।
विचिन्त्य निश्चय गच्छे गमनायेतराय वा ॥ 3-239-7(25316)
ममापि हिमहान्हर्षो यदहं भीमफल्गुनौ।
क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति ॥ 3-239-8(25317)
न तथा ह्याप्नुयां प्रीतिमवाप्य वसुधामिमाम्।
दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः ॥ 3-239-9(25318)
किंनु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम्।
द्रौपदीं कर्ण पश्येयं काषायवसनां वने ॥ 3-239-10(25319)
यदि मां दर्मराजश्च भीमसेनश्च पाण्डवः।
युक्तं रपरमया लक्ष्म्या पश्येतां जीवितं भवेत् ॥ 3-239-11(25320)
उपायं न तु पश्यामि येन गच्छेम तद्वनम्।
यथाचाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः ॥ 3-239-12(25321)
स सौबलेन सहितस्तथा दुःशासनेन च।
उपायं पश्य रनिपुणं येन गच्छेम तद्वनम् ॥ 3-239-13(25322)
अहमप्यनुगच्छामि गमनायेतराय च।
कल्यमेव गमिष्यामि समीपं पार्थिवस्य ह ॥ 3-239-14(25323)
मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे।
उपायो यो भवेद्दृष्टस्तं ब्रूयाः सहसौबलः ॥ 3-239-15(25324)
ततो भीष्मस्य राज्ञश्च निशम्य रगमनं प्रति।
व्यवसायं करिष्येऽहमनुनीय पितामहम् ॥ 3-239-16(25325)
तथेत्युक्त्वा तु ते सर्वेग्मुरावसथान्प्रति।
व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात् ॥ 3-239-17(25326)
ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत्।
उपायः परिदृष्टोऽयं तं निबोधजनेश्वर ॥ 3-239-18(25327)
घोषा द्वैतवने सर्वेत्वत्प्रतीक्षा नराधिप।
घोषयात्रापदेशेन गमिष्यामो न संशयः ॥ 3-239-19(25328)
उचितं हि सदा गन्तुं घोषयात्रां विशांपते।
एवं चेत्त्वां पिता राजन्समनुज्ञातुमर्हति ॥ 3-239-20(25329)
तथा कथयमानौ तु घोषयात्राविनिश्चयम्।
गान्धारराजः शकुनिरित्युवाच हसन्निव ॥ 3-239-21(25330)
उपायोऽयंमया दृष्टो गमनाय निरामयः।
अनुज्ञास्यतिनो राजा चोदयिष्यति चाप्युत ॥ 3-239-22(25331)
घोषा द्वैतव्रने सर्वेत्वत्प्रतीक्षा नराधिप।
घोषयात्रापदेशेन गमिष्यामः सरः प्रति ॥ 3-239-23(25332)
ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान्ददुः।
तदेव च विनिश्चेत्य ददृशुः कुरुसत्तमम् ॥ 3-239-24(25333)
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि एकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-239-4 आयतिमुत्तरकालम् ॥ 3-239-7 इतरायावस्थानाय ॥ 3-239-11 लक्ष्म्या उपेतं पश्येतां चेज्जीवितं युक्तमिति संबन्धः ॥ 3-239-14 अह्मप्यद्यनिश्चित्य इति झ. पाठः। कल्यं प्रातः ॥ 3-239-15 वचो भीष्मस्य इति झ. पाठः ॥ 3-239-19 घोषा गोव्रजाः ॥ 3-239-22 अयमुपायो घोषयात्रैव ॥ 3-239-24 तलान् हस्ततलानि ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|